Dwadash Jyotirling Stotram: द्वादश ज्योतिर्लिंग स्तोत्रम पाठ।
Dwadash Jyotirling Stotram: द्वादश ज्योतिर्लिंग स्तोत्रम पाठ:-
सौराष्ट्रदेशे विषदेतिरम्ये
ज्योतिर्मयं चन्द्रकलावतंसम।
भक्तिप्रदानाय कृपावतीण
तं सोमनाथं शरणं प्रपद्ये।। १ ।।
श्रीशैलशृंङ्गे विबुधातिसङ्गे
तिलाद्रितुङ्गेपि मुदा वसन्तम।
तमर्जुनं मलिल्कपूर्वमेकं
नमामि संसारसमुद्रसेतुम।। २ ।।
अवन्तिकायां विहितावतारं
मुक्तिप्रदानाय च सज्जनाम।
अकालमृत्योः परिरक्षणार्थं
वन्दे महाकालमहासुरेशम।। ३ ।।
कावेरिकानमर्दयोः पवित्रे समागमे सज्जनतारणाय।
सदैवमान्धातृपुरे वसन्तमोङ्कारमीशं शिवमेकमीडे।। ४ ।।
पूर्वोत्तर प्रज्वलिकानिधाने सदा वसन्तं गिरिजासमेतम।
सुरासुराराधितपादपपद्मं श्री वैधनाथं तमहं नमामि।। ५ ।।
याम्ये सदङ्गे नगरेतिरम्ये विभूषिताङ्गं विविधैश्च भोगैः।
सद्भक्तिमुक्तिप्रदमीशमेकं श्रीनागनाथं शरणं प्रपद्ये।। ६ ।।
महाद्रिपाश्वे च तटे रमन्तं सम्पूज्यमानं सततं मुनीन्द्रैः।
सुरासुरैर्यक्ष महोरगाढयैः केदारमीशं शिवमेकमीडे।। ७ ।।
सह्माद्रीशीर्षे विमले वसन्तं गोदावरितिरपवित्रदेशे।
यद्धर्शनात्पातकमाशु नाशं प्रयाति तं त्र्यंबकमीशमीडे।। ८ ।।
सुताम्रपर्णीजलराशियोगे निबध्य सेतुं विशिखै रसंख्यैः।
श्रीरामचन्द्रेण समर्पितं तं रामेश्वराख्यं नियतं नमामि।। ९ ।।
यं डाकिनिशाकिनिकासमाजे निषेव्यमाणं पिशिताशनैश्च।
सदैव भीमादिपदप्रसिद्दं तं शङ्करं भक्तहितं नमामि।। १० ।।
सानन्दमानन्दवने वसन्तमानन्दकन्दं हतपापवृन्दम।
वाराणसीनाथमनाथनाथं श्रीविश्वनाथं शरणं प्रपद्ये।। ११ ।।
इलापुरे रमीविशालकेस्मिन समुल्लसन्तं च जगद्वरेणयम।
वन्दे महोदारतरस्वभावं धृष्णेश्वराख्यं शरणम प्रपद्ये।। १२ ।।
ज्योतिर्मयद्वादशलिङ्गकानां शिवात्मनां प्रोक्तमिदं क्रमेण।
स्त्रोत्रं पठित्वा मनुजोतिभक्त्या फलं तदालोक्य निजं भजेच्च।। १३ ।।